॥ वाराह्यनुग्रहाष्टकम् !!

 ॥ वाराह्यनुग्रहाष्टकम् !!

ईश्वर उवाच
मातर्जगद्रचननाटकसूत्रधार
-
स्त्वद्रूपमाकलयितुं परमार्थतोऽयम् ।परमार्थतोऽयम्
ईशोऽप्यमीश्वरपदं समुपैति तादृक्
-
तादृक्
कोऽन्यः स्तवं किमिव तावकमादधातु
॥ १॥


नामानि किन्तु
गृणतस्तव लोकतुण्डे
नाडम्बरं स्पृशति दण्डधरस्य दण्डः ।
यल्लेशलम्बितभवाम्बुनिधिर्यतो यत्
-यत्
त्वन्नामसंसृतिरियं ननु नः
स्तुतिस्ते
॥ २॥


त्वच्चिन्तनादरसमुल्लसदप्रमेया
-
ऽऽनन्दोदयात्समुदितः स्फुटरोमहर्षः ।
मातर्नमामि
सुदिनानि सदेत्यमुं त्वा
-
मभ्यर्थयेऽर्थमिति पूरयताद्दयालो ॥ ३॥


इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न
-
रोचिश्चयोज्ज्वलितपादसरोजयुग्मे । चेतो मतौ मम सदा प्रतिबिम्बिता त्वं भूया भवानि विदधातु सदोरुहारे ॥ ४



लीलोद्धृतक्षितितलस्य वराहमूर्ते
-
वराहमूर्ते
र्वाराहमूर्तिरखिलार्थकरी त्वमेव ।
प्रालेयरश्मिसुकलोल्लसितावतंसात्वं देवि वामतनुभागहरा रहस्य
॥ ५॥



त्वामम्ब तप्तकनकोज्ज्वलकान्तिमन्त
-
र्ये चिन्तयन्ति युवतीतनुमागलान्ताम् ।युवतीतनुमागलान्ताम्
चक्रायुधत्रिनयनाम्बरपोतृवक्त्रां तेषां पदाम्बुजयुगं प्रणमन्ति
देवाः
॥ ६॥



त्वत्सेवनस्खलित पापचयस्य मात
-
र्मोक्षोऽपि यत्र न सतां गणनामुपैति । देवासुरोरगनृपालनमस्य पाद-
स्तत्र श्रियः पटुगिरः कियदेवमस्तु ॥ ७॥


किं दुष्करं त्वयि मनोविषयं गतायां
किं दुर्लभं त्वयि विधानवदर्चितायाम् ।विधानवदर्चितायाम्
किं दुष्करं त्वयि सकृत्स्मृतिमागतायां
किं दुर्जयं त्वयि कृतस्तुतिवादपुंसाम् ॥कृतस्तुतिवादपुंसाम् ८॥


॥ इति श्री वाराह्यनुग्रहाष्टकं सम्पूर्णम् !! 

Comments